Showing posts with label श्री विष्णुसहस्रनाम स्तोत्र. Show all posts
Showing posts with label श्री विष्णुसहस्रनाम स्तोत्र. Show all posts

Sunday, February 10, 2019

श्री विष्णुसहस्रनाम स्तोत्र

ब्रह्मा उवाच
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत सर्वविघ्नोपशान्तये ।।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।।

विनियोगः
ॐ अस्य श्रीविष्णु सहस्रनामस्तोत्रमंत्रस्य
ब्रह्मा ऋषिर्विष्णुदेवता अनुष्टुप्छन्दः
सर्वकामावाप्त्यर्थं जपे विनियोगः ।

ध्यानम् 
सजलजलदनीलं दर्शितोदारशीलं
करतलधृतशैलं वेणुवाद्यै रसालम् ।
व्रजजनकुलपालं कामिनीकेलिलोलं
तरुणतुलसिमालं नौमि गोपालबालम् ।।

अथ विष्णुसहस्त्रनामस्तोत्रम्

विष्णुर्जिष्णुर्हृषिकेशः सर्वात्मा सर्वभावनः ।
सर्वगः शर्वरीनाथो भूतग्रामाशयाशयः ।। १ ।।

अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः ।
सर्वव्यापी जगध्दाता सर्वशक्तिधरोऽनघः ।। २ ।।

जगद्बीजं जगत्स्त्रष्टा जगदीशो जगत्पतिः ।
जगद्गगुरुर्जगन्नाथो जगध्दाता जगन्मयः ।। ३ ।।

सर्वाकृतिधरः सर्वो विश्वरूपी जनार्दनः ।
अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ।। ४ ।।

बहुरूपैकरूपश्च सर्वरूपधरो हरः ।
कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ।। ५ ।।

महार्णवो महामेघो जलबुद्बुदसम्भवः ।
संस्कृतोऽविकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ।। ६ ।।

अनन्तो वासुकिः शेषो वराहो धरणीधरः ।
पयः क्षीर विवेकाढयो हंसो हैमगिरिस्थितः ।। ७ ।।

हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ।
मन्थनो रत्नहारी च कूर्मोऽधरधराधरः ।। ८ ।।

विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः ।
नाभिनालमृणाली च सवयंभूश्चतुराननः ।। ९ ।।

प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ।
मरीचिः कश्यपो वत्सः सुरासुरगुरुः कविः ।। १० ।।

वामनो वामभागी च वामकर्मा बृहद्वपुः ।
त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ।। ११ ।।

यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग विभुः ।
सहस्त्रांशुर्भगो भनुर्विवस्वान् रविरंशुमान् ।। १२ ।।

तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षीः मनुर्यमः ।
देवराजः सुरपतिर्दानवारिः शचीपतिः ।। १३ ।।

अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः ।
नैर्ऋतो नादानोऽनादी रक्षोयक्षधनाधिपः ।। १४ ।।

कुबेरो वित्तवान् वेगो वसुपालो विलासकृत् ।
अमृतस्त्रवणः सोमः सोमपानकरः सुधीः ।। १५ ।।

सर्वौषधिकरः श्रीमान्निशाकारो दिवाकरः ।
विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ।। १६ ।।

नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्यूमापतिः ।
शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ।। १७ ।।

कृमिकीटो मृगव्याधो मृगहा मृगवत्सलः ।
वटुको भैरवो बालः कपाली दण्डविग्रहः ।। १८ ।।

श्मशानवासी मांसाशी दुष्टनाशी स्मरान्तकृत् ।
योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ।। १९ ।।

सेनानीः सैन्यदः स्कन्दो महाकालो गणाधिपः ।
आदिदेवो गणपतिर्विघ्नहा विघ्नाशन ।। २० ।।

ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः ।
नृसिंह उग्रद्रंष्ट्रश्च नखी दानवनाशकृत् ।। २१ ।।

प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः ।
शलभः सागरः साक्षी कल्पद्रुमविकल्पः ।। २२ ।।

हेमदो हेमभागी च हिमकर्ता हिमाचलः ।
भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ।। २३ ।।

लोकालोकान्तरो लोकी विलोकी भुवनेश्वर ।
दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ।। २४ ।।

विरूपो रूपवान् रागी नृत्यगीत विशारदः ।
हाहा हूहूश्चित्ररथो देवर्षिनारदः सखा ।। २५ ।।

विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ।
कपिलो जल्पको वादी दत्तो हैहयसंघराट् ।। २६ ।।

वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ।
जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यर्षिः ।। २७ ।।

हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ।
अगास्तिः पुलहो रक्षः पौलस्त्यो रावणो घटः ।। २८ ।।

देवारिस्तापसस्तापि विभीषणहरिप्रियः ।
तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ।। २९ ।।

दाशरथी राघवो रामो रघुवंशविवर्धनः ।
सीतापतिः पतिः श्रीमान्  ब्रह्मण्यो भक्तवत्सलः ।। ३० ।।

सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः ।
किरीटी कुण्डली चापी शङ्खचक्री गदाधरः ।। ३१ ।।

कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः ।
सौमित्रो भरतो बालः शत्रुघ्नो भरताग्रजः ।। ३२ ।।

लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ।
हनुमान् ऋक्षराजश्च सुग्रीवो बालिनाशनः ।। ३३ ।।

दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः ।
वनध्वंसी वनी वेगी वानरो वानरध्वजः ।। ३४ ।।

लांङ्गूली च नखी दंष्ट्री लङ्काहाहाकरो वरः ।
भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ।। ३५ ।।

जानकीवल्लभः कामी किरीटी कुण्डली खगी ।
पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ।। ३६ ।।

चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः ।
स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाङ्गवासकः ।। ३७ ।।

जितवैरी जितकामो जितक्रोधो जितेन्द्रियः ।
शान्तो दांतो दयाऽऽरामो ह्येकस्त्रीव्रतधारकः ।। ३८ ।।

सात्विकः सत्वसंस्थानो मदहा क्रोधहा खरः ।
बहुराक्षससंवीतः सर्वराक्षसनाशकृत् ।। ३९ ।।

रावणारी रणक्षुद्रदशमस्तकछेदकः ।
राजयकारी यज्ञकारी दाता भोक्ता तपोधनः ।। ४० ।।

अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः ।
सत्यव्रतो व्रती शूरास्तपी सत्यफलप्रदः ।। ४१ ।।

सर्वसाक्षी सर्वगश्च सर्वप्राणोहरोऽव्ययः ।
प्राणश्चाथाप्यपानाश्च व्यानोदानः समानकः ।। ४२ ।।

नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः ।
सर्वप्राणविदो व्यापी योगधारकधारकः ।। ४३

तत्त्ववित्तत्त्वदस्तत्वी सर्वतत्वविशारदः ।
ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ।। ४४ ।।

ब्रह्मज्ञो ब्रह्मदो ब्रह्मज्ञाता च ब्रह्मसम्भवः ।
अध्यात्मविद विदो दीपो ज्योतिरूपो निरञ्जनः ।। ४५ ।।

ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ।
सुशिष्यः शिक्षितः शाली शिक्षाविशारदः ।। ४६ ।।

मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः ।
संमन्त्रो मन्त्रविन्मन्त्री यन्त्र त्रिएक यन्त्रमन्त्रैकभञ्जनः ।। ४७ ।।

मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः ।
बहुमायो विमायश्च महामायाविमोहकः ॥ ४८॥

मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः ।
ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ ४९॥

सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः ।
अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ ५० ॥

वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः ।
ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ ५१ ॥

त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ।
प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ ५२ ॥

सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी ।
निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ ५३ ॥

निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः ।
निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ ५४ ॥

सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः ।
एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ ५५ ॥

द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः ।
खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ ५६ ॥

क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः ।
कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ ५७ ॥

दिवाकालकरः कालः कुलधर्मः सनातनः ।
कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ ५८ ॥

युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ।
कुलाचारः कुलकरः कुलदैवकरः कुली ॥ ५९ ॥

चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ।
वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ ६० ॥

बटुको ब्रह्मचारी च शिखासूत्री कमण्डली  ।
त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥ ६१ ॥

हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः ।
महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ ६२ ॥

नरनारायणोऽनागो केदारोदारविग्रहः ।
गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ ६३॥

निधिरेष महापद्मः पद्माकरश्रियालयः ।
पद्मनाभः परीतात्मा परिव्राट् पुरुषोत्तमः ॥ ६४ ॥

परानन्दः पुराणश्च सम्राड्राज विराजकः ।
चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ ६५ ॥

आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा ।
औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ ६६ ॥

चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत् ।
अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ ६७ ॥

गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः ।
विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ ६८ ॥

बहुवृष्टिकरो वर्षी ऐरावणविरावणः ।
उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ ६९ ॥

प्रावृषो मेघमाली च गजरत्नपुरन्दरः ।
वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ ७० ॥

शेषशायी जलेशायी व्यासः सत्यवतीसुतः ।
वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ ७१ ॥

स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ।
सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ ७२ ॥

सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ।
बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ ७३ ॥

जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः ।
अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ ७४ ॥

समुद्रमाथको माथी सर्वरत्नहरो हरिः ।
वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ ७५ ॥

अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ।
पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ ७६ ॥

अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ।
पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ ७७ ॥

भगवान्भगहा भागी भवभञ्जो भयङ्करः ।
कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ ७८ ॥

एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ।
बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ ७९ ॥

सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः ।
षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥  ८० ॥

दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः ।
श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ ८१ ॥

चीरवासा विवासाश्च भूतदानववल्लभः ।
अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ ८२ ॥

दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः ।
कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ ८३ ॥

ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ।
दानमानजपो होमः सानुकूलः शुभग्रहः ॥ ८४ ॥

विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ।
अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ ८५ ॥

सेवकः सामदानी च भेदी दण्डी च मत्सरी ।
दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ ८६ ॥

हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ।
होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ ८७ ॥

द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः ।
दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ ८८ ॥

दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ।
आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ ८९ ॥

प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ।
सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ ९० ॥

वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ।
क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित् ॥ ९१ ॥

राज्यभागविदो भागी सर्वभागविकल्पकः ।
वाहनो वाहको वेगी पादचारी तपश्चरः ॥ ९२ ॥

गोपनो गोपको गोपी गोपकन्याविहारकृत् ।
वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ ९३ ॥

देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी ।
यशोदानन्दनो दामी दामोदर उलूखली ॥ ९४ ॥

पूतनारिः पदाकारी लीलाशकटभञ्जकः ।
नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ ९५ ॥

वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत् ।
बकारिर्वनवासी च वनक्रीडाविशारदः ॥ ९६ ॥

कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः ।
गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ ९७ ॥

मायावत्सकरो मायी ब्रह्ममायापमोहकः ।
आत्मसारविहारज्ञो गोपदारकदारकः ॥ ९८ ॥

गोचारी गोपतिर्गोपो गोवर्धनधरो बली ।
इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ ९९ ॥

सुरभित्राणकर्ता च दावपानकरः कली ।
कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ १०० ॥

सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः ।
लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ १०१ ॥

यमुनाकर्षणोद्धारो नीलवासा हलो हली ।
रेवती रमणो लोलो बहुमानकरः परः ॥ १०२ ॥

धेनुकारिर्महावीरो गोपकन्याविदूषकः ।
काममानहरः कामी गोपीवासोऽपतस्करः ॥ १०३ ॥

वेणुवादी च नादी च नृत्यगीतविशारदः ।
गोपीमोहकरो गानी रासको रजनीचरः ॥ १०४ ॥

दिव्यमाली विमाली च वनमालाविभूषितः ।
कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ १०५ ॥

चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् ।
मुरहा मोदका मोदी मदघ्नो नरकान्तकृत् ॥ १०६ ॥

विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ।
सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ १०७ ॥

विद्याशाली विशाली च पितृमातृविमोक्षकः ।
रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ १०८ ॥

पाञ्चजन्यो महापद्मो बहुनायकनायकः ।
धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ १०९ ॥

प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ।
फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ ११० ॥

किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥

शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ १११॥

पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति ।
युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ ११२ ॥

नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी ।
गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ ११३ ॥

प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः ।
अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ ११४ ॥

सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः ।
दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ ११५ ॥

लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ।
पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ ११६ ॥

त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः ।
यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ ११७ ॥

शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः ।
सदयो हृदयो दायो दायदो दायभाग्दयी ॥ ११८ ॥

महोदधिर्महीपृष्ठो नीलपर्वतवासकृत ।
एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ ११९ ॥

यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः ।
बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ १२० ॥

भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ।
त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ १२१ ॥

शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः ।
श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ १२२ ॥

कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् ।
कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ १२३ ॥

किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः ।
एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ १२४ ॥

वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ।
बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ १२५ ॥

व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ।
असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ १२६ ॥

मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः ।
किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ १२७ ॥

निर्लोकश्च निराकारी बह्वाकारैककारकः ।
दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ १२८ ॥

द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ १२९ ॥
आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः ।
मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ १३० ॥

नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ।
सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥ १३१ ॥

यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः ।
त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ १३२ ॥

सहस्त्राक्षः सहस्राङ्घ्रि सहस्त्रवदनोज्जवलः ।
सहस्त्रनामानन्ताक्षः सहस्त्रभुज ते नमः ।।

इति श्रीस्कन्दमहापुराणे आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः ॥

*स्रोत -: स्कन्द पुराण, आवन्त्यखण्ड, अवन्तिक्षेत्र माहात्म्य